|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.63. अध्यायः 063
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन भीष्मपराजयः ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-63-0x(3243)(31039)
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्।
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ॥ 4-63-1(31040)
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः।
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ॥ 4-63-2(31041)
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः ।
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ॥ 4-63-3(31042)
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्।
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ॥ 4-63-4(31043)
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम्।
भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ 4-63-5(31044)
सन्ततं शरजालाभिराकाशं समपद्यत।
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ॥ 4-63-6(31045)
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ 4-63-7(31046)
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे ।
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ॥ 4-63-8(31047)
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ॥ 4-63-9(31048)
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् ।
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ॥ 4-63-10(31049)
ततस्तानि विसृष्टानि शरजालानि सङ्घशः।
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ॥ 4-63-11(31050)
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः ।
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ॥ 4-63-12(31051)
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः।
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ॥ 4-63-13(31052)
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः ।
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ॥ 4-63-14(31053)
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन्।
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ॥ 4-63-15(31054)
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ 4-63-16(31055)
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ॥ 4-63-17(31056)
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ ।
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ॥ 4-63-18(31057)
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ॥ 4-63-19(31058)
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ 4-63-20(31059)
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे।
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ॥ 4-63-21(31060)
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ॥ 4-63-22(31061)
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ॥ 4-63-23(31062)
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे।
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ॥ 4-63-24(31063)
शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये ।
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून्।
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ॥ 4-63-25(31064)
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ॥ 4-63-26(31065)
अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ॥ 4-63-27(31066)
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ॥ 4-63-28(31067)
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः।
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ॥ 4-63-29(31068)
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः।
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ॥ 4-63-30(31069)
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः।
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ॥ 4-63-31(31070)
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ 4-63-32(31071)
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ 4-63-33(31072)
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ 4-63-34(31073)
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते।
सौराणां च महास्राणां विचित्रोऽयं समागमः ॥ 4-63-35(31074)
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ॥ 4-63-36(31075)
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् ।
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ॥ 4-63-37(31076)
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्।
पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ 4-63-39a[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत ।
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ॥ 4-63-38(31077)
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् ।
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ॥ 4-63-40(31078)
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् ।
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ॥ 4-63-41(31079)
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा ।
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ॥ 4-63-42(31080)
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः ।
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ॥ 4-63-43(31081)
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते।
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ॥ 4-63-44(31082)
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् ।
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ॥] 4-63-45(31083)
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः 4-63-46(31084)
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्।
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ॥ 4-63-47(31085)
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥ 4-63-48(31086)
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ॥ 4-63-49(31087)
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ 4-63-50(31088)
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे।
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ॥ 4-63-51(31089)
यस्य नास्ति समो लोके पितृदत्तवरश्च यः।
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः ।
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ॥ 4-63-52(31090)
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे।
पृथासुतहितार्थाय पराजित इवाभवत् ॥ ॥ 4-63-53(31091)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|